भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 801 to 810 of 1822 verses
इत्युक्तोऽपि पुनः प्रकोपपरया मौनेन निर्भर्त्सितो मानिन्याः सुहृदेव बाष्पपयसा गच्छन् धृतो वल्लभः॥ १७८॥

६. चेष्‍टायां यथा—

श्वासोत्कम्पतरङ्गिणि स्तनतटे धौताञ्जनश्यामलाः कीर्यन्ते कणशः कृशाङ्गि! किममी बाष्पाम्भसो बिन्दवः।

किञ्चाकुञ्चितकण्ठरोधकुटिलाः कर्णामृतस्यन्दिनो हुङ्काराः कलपञ्चमप्रणयिनस्त्रुट्‍यन्ति निर्यान्ति च॥ १७९॥

(५. चित्रचाटूक्‍तयः)

प्रियाप्रत्यानयनाय प्रियस्य १भुजङ्गभङ्गिभाषितानि चित्रचाटूक्तयः। ताश्च आत्मनो दोषाभ्युपगमे दोषानभ्युपगमे उभयाभावे च, परस्परदोषारोपणे दोषानारोपणे उभयाभावे च। तत्र—

१. दोषाभ्युपगमे यथा—(रत्‍ना.३.१४)

आताम्रतामपनयामि विलक्ष एष लाक्षाकृतां चरणयोस्तव देवि! मूर्ध्‍ना।

कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमा यदिपरं करुणा मयि स्यात्॥ १८०॥

NOTES pg=1352! १. वक्रता हि भुजङ्गस्य भङ्गी। वक्रभाषितमतो वक्रोक्तिः।

Showing 801 to 810 of 1822 verses