दातुं वा प्रभवसि मामन्यस्मै ह/कर्तुमेव वा दासम्।
नाहं पुनस्तथा त्वयि यथाहि मां शङ्कसे भीरु॥ १८४॥१
कअ—विप्पिओ ण माणिणि! भणामि कह तुज्झ वअणपडिऊलं।
कअ—विप्पिओसि एअं, वि दारुणं ताउ/व मं/मा भणसु॥ १८५॥
(कृतविप्रियो न मानिनि भणामि कथं तव वचनप्रतिकूलम्।
कृतविप्रियोऽसीति एतदपि दारुणं तावन्मां/मा भण॥)
प्रियायाः प्रवृत्तिदूषणमुपालम्भः। स द्विधा— प्ररूढविस्रम्भायाम्, अप्ररूढविस्रम्भायां च। तयोः प्ररूढविस्रम्भायां षोढा — प्रकृतिस्थः, कोमलः, कठोरः, नागरः, उपनागरः ग्राम्य इति। तेषु —
NOTES pg=1353! १. आकरो मृग्य इति तु राघवः HOS. पृ. १४८८।