१. प्रकृतिस्थो यथा—(हरिवि.)
अक्खंडिए वि पणए अकअंमि वि विप्पिए अकज्जे वि मज्झ।
जाअं चिअ वअणिज्जं तुह रोसम्मि दइए णिमित्तं पि पअं॥ १८६॥
(अखण्डितेऽपि प्रणयेऽकृतेऽपि विप्रिये अकार्येऽपि मम।
जातमेव वचनीयं तव रोषे दयिते निमित्तमपि प्रियम्॥)
अपरिक्खिअदोसगुणं अवमण्णिअ चिरप्परूढवीसंह—रसं।
अवहीरिआणुराअं तुमे वि मह रुसिउं जणेण वि खिण्णं॥ १८७॥
(अपरीक्षितदोषगुणं अवमत्य चिरप्ररूढविस्रम्भरसम्।
अवधीर्यानुरागं त्वयापि मह्यं रुष्ट्वा जनेनेव खिन्नम्॥)