२. दोषानभ्युपगमो यथा—(रत्ना. २.२०)
प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः।
न मे दोषोऽस्तीति त्वमिदमपि च ज्ञास्यसि मृषा किमेतस्मिन् वक्तुं क्षममिति न वेद्मि प्रियतमे!॥ १८१॥
त्यज रुषमिमां त्वं मामेवं न वक्तुमहं क्षमे कथमिति यतो नायं न्यायः प्रभावनुजीविनाम्।
चरणपतने चण्डि! प्रायः स्फुरन्ति मनोरथाः किमुत न वयं नन्वेतस्यां धुरि प्रणयस्य ते॥ १८२॥
आधातुं विनयं निरागसि जने कुप्यन्तु नामेश्वराः तेन स्वाशयशुद्धिरेव सुवचा प्रायः प्रभूणां पुरः।
मिथ्यामानिनि! मन्यसे यदि तदा नित्यं मनोवर्तिनी ध्याता तामरसाक्षि! चित्रपटके का वा त्वदन्या मया॥ १८३॥
४. दोषानारोपणे यथा—(विक्र. ३.१४)