वअणं वहसि किसोअरि कर—संकामिअ—कओल—पत्तालेक्खं॥ १७६॥
(कस्माद् मलिनावतंस बहलनिःश्वासपाण्डुराधररागम्।
वदनं वहसि कृशोदरि! करसङ्क्रामितकपोलपत्रालेख्यम्॥)
तणुअं पि अणिव्वडिअं पुणो पुणो वेविराहरोट्ठिपिसुणिअं।
वअणब्भंतरभरिअं हिअअट्ठिअं किं तुहं पसम्मइ वअणं॥ १७७॥
(तनुकमपि अनिर्वर्तितं पुनः पुनर्वेपनशीलाधरोष्ठपिशुनितम्।
वदनाभ्यन्तरभृतं हृदयस्थितं किं तव प्रशाम्यति वचनम्॥)
कान्त्या पाटलया किमद्य सकलाक्रान्ता मुखेन्दोः प्रभा किञ्चोष्णैरधरः सरोरुहमुखि! श्वासानिलैः शोष्यते।