मातर्मातर्दलति हृदयं ध्वंसते देहबन्धः शून्यं मन्ये जगदविरतज्वालमन्तर्ज्वलामि।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वङ्गमोहः स्थगयति कथं मन्दभाग्यः करोमि॥ २०५॥
बन्धुताहृदयकौमुदीमहो मालतीनयनमुग्धचन्द्रमाः।
सोऽयमद्य मकरन्दन्दनो जीवलोकतिलकः प्रलीयते॥ २०६॥
जातानुभावस्य विरहिणः स्मरणादिबीजोद्बोधहेतुश्चित्तारम्भादिकारणं अर्थातिशयः विरहोद्दीपनम्। स प्रायेणाष्टधा— देशः, देशचिह्नं, कालः, कालचिह्नं, वस्तु, वस्तुचिह्नं, कार्यं, कार्यचिह्नम् इति।
स्मरणादयस्तु चत्वारः— स्मरणम्, इच्छा, द्वेषः, प्रयत्न इति।
चित्तारम्भादयोऽपि तावन्त एव—चित्तारम्भः, वागारम्भः, बुदध्यारम्भः, शरीरारम्भ इति। उभये प्रत्येकतश्चतुर्धा। तत्र—