अणहे उण रहुणाहे तुह मे मरणविहुरं किलमइ हिअअं॥ २१२॥
(किं वा जितं श्यामे! यदि अलीकं सखि न भवेद् राघवमरणम्।
अनघे पुना रघुनाथे तव मे मरणविधुरं क्लाम्यति हृदयम्॥)
(५. निर्वहणसन्धौ करुणस्य विभावादयः —१६)
१. निर्वहणसन्धौ मरणाध्यवसायविद्रवो यथा—(कादकसा. ४.१२१)
मरणव्यवसायनिश्चला कृतवत्यस्मि च संविधानकम्।
निरियाय च चन्द्रमण्डलात् पुरुषः कोऽपि हिमोपमद्युतिः॥ २१३॥
इत्थं रतेः किमपि भूतमदृश्यरूपं मन्दीचकार मरणव्यवसायबुद्धिम्।
तत्प्रत्ययाच्च कुसुमायुधबन्धुरेनामाश्वासयत् सुरचितार्थपदैर्वचोभिः॥ २१४॥