२. शोकतिरस्कारो यथा—(कादकसा. ४.१२३)
विरम मरणोद्योगादस्मत्प्रियेण तवामुना पुनरपि महाश्वेते वत्से भविष्यति सङ्गमः।
इति गिरमिमां श्रुत्वा तस्मात् सविस्मयकौतुकात् किमिदमिति तं तत्रापृच्छम् प्रसृत्य कपिञ्जलम्॥ २१५॥
अस्तोकविस्मयमपस्मृतपूर्ववृत्तमुद्भूतनूतनभयज्वरजर्झरं नः।
एकक्षणत्रुटितसङ्घटितप्रमोदमानन्दशोकशबवत्वमुपैति चेतः॥ २१६॥
३. शोकलाघवं यथा—(उराच. १.३१)
एतस्मिन् मदकलमल्लिकाक्षपक्षव्याधूतस्फुरदुरुदण्डपुण्डरीकाः।
बाष्पाम्भःपरिपतनोद्गमान्तराले संदृष्टाः कुवलयिनो मया विभागाः॥ २१७॥