एते ते कुहरेषु गद्गदनदद्गोदावरीवारयो मेघालम्बितमेघनीलशिखराः क्षोणीभृतो दक्षिणाः।
अन्योन्यप्रतिघातसङ्कुलदलत्कल्लोलकोलाहलै— रुत्तालास्त इमे गभीरपयसः पुण्याः सरित्सङ्गमाः॥ २१८॥१
१. अतः परं शोकविनोदस्य उदाहरणं नोपलभ्यते
५. तपस्योद्योगो यथा—(रघु. १४.६६)
साहं तपस्सूर्यनिविष्टदृष्टिरूर्ध्वं प्रतीतेश्चरितुं यतिष्ये।
तथा यथा मे जननान्तरेऽपि त्वमेव भर्ता न च विप्रयोगः॥ २१९॥
पश्यन्त्यां मयि ते त्रयोऽपि विविशुः शीतत्विषो मण्डलं तत्सम्प्रत्ययसंहृतोचितविधिः सास्मि श्रितेदं व्रतम्।
तातेनैत्य ततः प्रभृत्यहमिहासीना न नेतुं गृहान् यत्नेनापि हि वरितेति सुचिरं स्थित्वा गतः स्वं पुरम्॥ २२०॥