परिष्वक्तस्तावद् गुरुजनभयान्नैव स मया न चोक्तं तिष्ठेति प्रियाविरहबाष्पार्द्रगलया।
द्रुतं गच्छामीति प्रियसखि! सुदृष्टोऽपि न कृतो निरुद्धो यावन्मे नयनसलिलैर्दृष्टिविषयः॥ ९७॥
किं वः कोऽपि जनोऽध्वगास्स्ववसतेरापृच्छय मूढां प्रिया— मुत्सृज्यागतवान्विमूढहृदयो धीरं ध्वनत्यम्बुदे।
बाला मांसलपङ्कभूयसि पथि श्रान्ता पुरो वल्लभे दूरं गच्छति पृच्छतीति पथिकान् क्षीबानिवाकुञ्चति॥ ९८॥
दूरं सुन्दरि निर्गतासि नगरादेष द्रुमः क्षीरवा— नस्मादेव निवर्त्यतामिति शनैरुक्त्वाध्वगेन प्रियाम्।
गाढिलिङ्गनवामनीकृतकुचाभोगस्फुटत्कञ्चुकं वीक्ष्योरःस्थलमश्रुपूरितदृशा प्रस्थानभङ्गः कृतः॥ ९९॥