इत्याक्षिप्य सदासमस्तमघृणो गन्तुं प्रवृत्तस्तदा पूर्वं प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः॥ ९०॥
२. अप्रवृत्तं यथा—(अमरु. ६३)
लग्ना नांशुकपल्लवे भुजलता न द्वारदेशेऽर्पिता नो वा पादयुगे मुहुर्निपतिता तिष्ठेति नोक्तं वचः।
काले केवलमम्बुदालिमलिने गन्तुं समभ्युद्यत— स्तन्व्या बाष्पजलौधकल्पितनदीपूरेण रुद्धः प्रियः॥ ९२॥
३. प्रवृत्ताप्रवृत्तं यथा—
यामीत्युक्तवति व्रजेत्यभिहितं त्रस्तं विमक्तासने द्वित्राण्येव पदानि गच्छति गलद्बाष्पान्धमालोकितम्।
निर्याते दयितेऽश्रूपूरितदृशा तन्मुग्धयानुष्ठितं व्यासेऽवस्थितिपत्रकं प्रवसतो यज्जातमाजन्मनः॥ ९२॥
४. अप्रवृत्तप्रवृत्तं यथा—
यात्रामङ्गलसन्निधानरचनाव्यग्रे सखीनां गणे बाष्पाम्भःपिहितेक्षणे गुरुजने तद्वत्सुहृन्मण्डले।
प्राणेशस्य मदीक्षणाहितदृशः कृच्छ्रदतिक्रामतः किं व्रीडाहतया मया भुजलतापाशो न कण्ठेऽर्पितः॥ ९३॥