(न सखि! अनुनयभणितं न ददासि, प्रसरद्रोषमुक्तामर्षम्।
कथमा एकरसमेव दूरविसंवदितनिष्ठुरं तव हृदयम्॥)
तह माणो माणहणाएँ तीअ एमेअ दूरमणुबद्धो।
जह से अणुणीअ पिओ एक्कग्गाम च्चिअ पउत्थः॥ ६८॥
(तथा मानो मानधनाया तथा एवमेव दूरमनुबद्धः।
यथा तस्या अनुनीय प्रिय एकग्राम एव प्रोषितः॥)
छिन्दानं हृदयं मतिं बिधुरया दाक्षिण्यमुन्मीलयन् देवोत्प्रासनया जनेन जनितं यत्प्रेम सापि प्रियम्।
सोढुं हन्तुमपेक्षितुं जरयितुं निह्नोतुमुत्पुंसितुं निध्यातुं गदितुं च न प्रणयिभिः तज्जन्मना पार्यते॥ ६९॥