यो वा तस्या न सदृशः स किं सर्वो जनो म्रियताम्॥)
११. अपराधजन्मदुःखोत्पादितो मन्युर्यथा—
आसूत्र्यन्ते श्वसितमरुतो यत्कुचोत्सेधकम्पै— रन्तर्ध्यानात् त्रुटति च बहिर्यादृशो लक्षलाभः।
पक्ष्मोत्क्षेपव्यतिकरहितो यश्च बाष्पस्तदेते भावाश्चण्डि! द्रवितहृदयं मन्युमावेदयन्ति॥ ६३॥
कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः।
मुहुर्लग्न : कण्ठे तरलयति बाष्पस्स्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे! न तु वयम्॥ ६४॥
१२. परगुणसम्भावनाऽसहिष्णुता मात्सर्यम् यथा—(गास. ६.१०)
वेसोसि जीअ पंसुल अहिअअरं सा हु वल्लहा तुज्झ।
इअ जाणई वि मए ण ईसिअं दड्ढपेम्मस्स॥ ६५॥