२. सखीकृतो यथा—(मामा. ६.१५/१६)
साधु लवङ्गिके साधु। अवसरे खलु अनुरागो(प)कारयोर्गरीयसोरुपन्यासः।
'दया वा स्नेहो वा भगवति निजेऽस्मिन् शिशुजने'॥ ८५॥
जदा भअवदीए आणत्तं। अण्णहा तस्सिं अवसरे दुद्दंसणे अदिक्कंतजोव्वणे किंति ण विआरिदं अमच्चेण। ता पसीद भअवदि पिरत्ताहि एत्तो जीवंतमरणादो पिअसहिं तुह वि एसा दुहिदा एव्व।
(यथा भगवत्याऽऽज्ञप्तम्। अन्यथा तस्मिन् अवसरे दुर्दर्शने अतिक्रन्तयौवने किमिति न विचारितम् अमात्येन? तत् प्रसीद भगवति परित्रायस्व एतस्मात् जीवन्मरणात् प्रियसखीम्, तवापि खलु एषा दुहितैव॥ ८६॥)
३. नायककृतो यथा—(मामा. १०.२२)
अपि चिन्तामणिश्चिन्तापरिश्रममपेक्षते।