अयि उजुए ण लज्जसि पुच्छन्ती मह पिअस्स चरिआइं।
सव्वंगसुरहिणो मरुवअस्स किं कुसुमरिद्धीए॥ ६२॥
(अयि ऋजुके न लज्जसे पृच्छन्ती मम प्रियस्य चरितानि।
सर्वाङ्गसुरभिणः मरुवकस्य किं कुसुमद्धर्या॥)
जाणिमि कआवराहं जाणिमि अलिआइ भणइ सअलाइ।
अणुणंते उण जाणे कआवराहां वरां व अप्पाणं॥ ६३॥
(जानामि कृतापराधं जानामि अलीकानि भणति सकलानि।
अनुनयति पुनर्जाने कृतापराधामिवात्मानम्॥)
तस्याः तथैवाकारग्रहणं यथा—