किं मामलीकसुभगे! मुखरीकरोषि भार्याजितस्य कमितुर्गुणकीर्तनेन।
द्राक्षाफलं न युवजन्मनि येन भुक्तं मन्ये मधूकमपि तस्य महोत्सवाय॥ ६४॥
७७. दूत्या च्छलेन अन्यामतिसन्धाय तस्याः सन्देशकथनद्वारेण नायकं साधयेत्।
तां वोपहन्यात् सा च्छद्मदूती, यथा—
दूत्येन प्रहिताहमस्मि भवतः कामं तया कान्तया दृष्ट्वा तामतिनिन्दितेऽपि हि पदं दत्तं मया वर्त्मनि।
दृष्टोऽसि त्वमभूत् कृतार्थमपि मे चक्षुस्स्त्रगेषार्प्यता— मित्थं दामविमोचनेन दयितं पीनस्तनी श्लिष्यति॥ ६५॥
७८. व्याजेनान्यमभिधत्ते सा व्याजदूती यथा—(मामा. १.३५/३६)
'महाभाग, सुश्लिष्टगुणतया रमणीय एव सन्निवेशः, कुतूहलिनी इव नः भर्तृदारिका, वर्तते च तस्यामभिनवः विचित्रः कुसुमेषुव्यापारः। तद् भवतु कृतार्थता वैदग्ध्यस्य, फलतु निर्माणरमणीयता, समासादयतु सरस एष भर्तृदारिकायाः कण्ठावलम्बनमहार्घतामिति॥ ६६॥
अनयोरुत्तरं प्रतिपत्तिरेव।
कथं त्विमे निसृष्टार्थे अपि पत्रहारिण्यौ?