अथातो दूतकर्माणि चतुर्विंशतिः। तानि— १. प्रवेशः २. विश्वासनं ३. उपावर्तनं ४. अनुवर्तनं ५. कार्योपन्यासशुद्धिः ६. अवस्थानिवेदनं ७. इङ्गिताकारज्ञानं ८. उपायज्ञानं ९. प्रक/तारणज्ञानं १०. समाश्वासनम् ११. अत्ययप्रतीकारः १२. प्रयोज्यप्रेषणं १३. सन्धिरक्षा १४. प्रतापव्यावर्णनं १५. प्रयोज्योपजापः १६. पराक्रमणं १७. बन्धुरत्नापहारः १८. मित्रोपग्रहः १९. सुहृद्विभेदः २०. चारज्ञानं २१. गूढदण्डातिचारः २२. अग्रसमाधानं २३. समाधिमोक्षः २४. दूतस्य कर्मयोगाश्रय इति।
प्रोक्ताः प्रवेशो विश्वासः प्रत्याहारोऽनुवर्तनम्।
उपन्यासो मनस्स्थानामवस्थानां निवेदनम्॥ ६९॥
देशकालेङ्गिताकारोपायज्ञानं प्रतारणम्।
समाश्वासनमापत्सु प्रतीकारः प्रतिक्रिया॥ ७०॥
प्रेषणं सन्धिका/पालत्वं प्रतापो मित्रसङ्ग्रहः।
उपजापस्य चाभेदो गूढदण्डातिचारणम्॥ ७१॥
बन्धुरत्नापहरणं चारज्ञानं पराक्रमः।
समाधिमोक्षो दूतस्य कर्मयोगस्य चाश्रयः॥ ७२॥