मुहमेत्तेण वराओ राहू किं कुणइ दद्धचंदस्स।
जो मीणमअरकक्कउसविच्छुअसीहेहि वि णिग्गओ॥ ७०॥
(मुखमात्रेण वराको राहुः किं करोति दग्धचन्द्रस्य।
यो मीन—मकर—कर्क—वृष—वृश्चिक—सिंहैरपि निर्गतः॥)
चंद तुमं ण गणिज्जसि जाव इमो बहलपत्तलच्छाओ।
उव्वूढकण्हपक्खो वाससहस्सं वडो जिअइ॥ ७१॥
(चन्द्र त्वां न गणयिष्यामः, असौ बहलपत्रलच्छायः।
उद्भूतकृष्णपक्षो यावद् वर्षसहस्रं वटो जीवति॥)