(वध्वा नदीनिकुञ्जे प्रथमोद्गतशीलखण्डनविलक्षम्।
उड्डयते विहङ्गकुलं हा हा पक्षैरिव भणत्॥)
आरूढविस्फुरितचापमनोजराजे सज्जीकृते सुदृढसङ्गमसङ्गरा च।
उच्चैर्नितम्बजयहस्तिनि वल्लभेष्टं यत् तत् प्रिया सरभसं निबिडं चकार॥ ७५॥
क्व प्रस्थितासि करभोरु! घने निशीथे प्राणेश्वरो वसति यत्र मनः—प्रियो मे।
एकाकिनी वद कथं न बिभेषि बाले नन्वस्ति पुङ्खितशरो मदनः सहायः॥ ७६॥
अभिसारिकावृत्तान्तो यथा—(गास. ५.६१)
उह संभमविक्खित्तं रमिअव्व—लेहलाएँ असईए।