प्रसङ्गो यथा—(कुसं. ५.३४)
अपि त्वदावर्जितवारिसम्भृतं प्रवालमासामनुबन्धि वीरुधाम्।
चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा॥ ७६॥
अनुप्रसङ्गो यथा—(कुसं. ५.३५)
अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु।
यदुत्पलाक्षेपचलैर्विलोचनैस्तवाक्षिसापत्न्यमिव प्रयुञ्जते॥ ७७॥
२. प्रस्तुतस्य स्थिरीकरणं पदम्। तद् उपक्षेपविक्षेपप्रक्षेपैः त्रिविधम्। तत्र— उपक्षेपो यथा—(कुसं. ५.३६)
यदुच्यते पार्वति! पापवृत्तये न रूपमित्यव्यभिचारि तद् वचः।
तथाहि ते शीलमुदारदर्शने तपस्विनामप्युपदेशतां गतम्॥ ७८॥
विक्षेपो यथा—(कुसं. ५.३७)