तत्र दर्शितेङ्गिताकारायां प्रविरलदर्शनायाम् अपूर्वायां च प्रयोज्यायां दूतप्रयोगः। स चैनां शीलतोऽनुप्रविशेदिति प्रवेशः। तत्र च पदात्पदान्तरमाकाङ्क्षेदिति सङ्क्षेपः; षट्प्र कारः, अष्टादशप्रकारो वेति विस्तरः। यथा—
'विधिप्रयुक्तां प्रतिगृह्य सत्क्रियाम्'॥ ७३॥ (कुसं. ५. ३२) इत्यत आरभ्य 'इति प्रविश्याभिहिता द्विजन्मना' इतिपर्यन्तः कुमारसम्भवे (५. ३२—५१)
उपोद्घातः पदं चैव पदार्थः पदविग्रहः।
चालना प्रत्यवस्थात्र व्याख्या तत्रास्य षड्विधा॥ ७४॥
षण्णामपि पृथक् त्रैविध्यादाष्टादशप्रकारत्वम्। तेषु —
१. प्रस्तावनामात्रमुपोद्घातः। सः अनुषङ्गप्रसङ्गानुप्रसङ्गभेदात् त्रिविधः। तत्र—
अनुषङ्गो यथा—(कुसं. ५.३३)
अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते।
अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम्॥ ७५॥