भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 341 to 350 of 765 verses
३. दूती नायकस्य यथा—(मामा. ४.४/५)

एवमतिदुर्मनायमानः पीडयति मां वत्सो (माधवः) वत्सा च मालती। दुष्करं निराशा प्रणिति (इति)। पृच्छामि च तावदायुष्मन्तंमपि। भवानमंस्त यथा भूरिवसुरेव मालतीमस्मभ्यं दास्यतीति। (अतः) प्रभवति ॰ ॰ ॰ कथञ्चन मामनवधानां मन्यसे' इतियावत्।

४. एवं सखी दूत्या यथा—(मामा. ३.१२/१३)

'भअवदी एव्वंवादिणि त्ति अत्थि। अंहाणं वि भट्टिदारिआ भवणसण्णरच्छामुहमुहुत्तवेदनस्स/मण्डणस्स तस्स एव्व देवस्स बहुसो अणुभूददंसणा भविअ रविअरासिलिट्ठमुद्धकमलिणीकंदसुंदरावअवसोहाविहा— विदाणंगवेअणावइअररमणीआ वि परिअणकुलदिण्णाहिणंदइ कलाकीला— वसाणदां वम्महस्स' इतियावत्।

(भगवती एवंवादिनीति अस्ति। अस्माकमपि भर्तृदारिका भवनासन्नरथ्यामुखमुहूर्तवेदनस्य/ मण्डनस्य तस्यैव देवस्य बहुशोऽनुभूतदर्शना भूत्वा रविकराश्लिष्‍टमुग्धकमलिनीकन्द— सुन्दरावयवशोभाविभावितानङ्गवेदनाव्यतिकररमणीयापि परिजनकुलदत्ताऽभिनन्दति कलाक्रीडावसानतां मन्मथस्य ॥ ९३॥)

५. सखी नाथिकाया यथा— (कादकसा. ७.५३–५५,७७, ७८)

अथ बिभ्रज्जटास्तन्वीः स्रुताम्बुकणदन्तुराः।

स्त/स्‍नानार्द्रवल्कलस्ताभिरदृश्यत कपिञ्जलः॥ ९४॥

स्वयमेवोपसृत्यैष महाश्वेतामभाषत।

राजपुत्र्यपि नामायं प्रत्यभिज्ञायते जनः॥ ९५॥

Showing 341 to 350 of 765 verses