३. दूती नायकस्य यथा—(मामा. ४.४/५)
एवमतिदुर्मनायमानः पीडयति मां वत्सो (माधवः) वत्सा च मालती। दुष्करं निराशा प्रणिति (इति)। पृच्छामि च तावदायुष्मन्तंमपि। भवानमंस्त यथा भूरिवसुरेव मालतीमस्मभ्यं दास्यतीति। (अतः) प्रभवति ॰ ॰ ॰ कथञ्चन मामनवधानां मन्यसे' इतियावत्।
४. एवं सखी दूत्या यथा—(मामा. ३.१२/१३)
'भअवदी एव्वंवादिणि त्ति अत्थि। अंहाणं वि भट्टिदारिआ भवणसण्णरच्छामुहमुहुत्तवेदनस्स/मण्डणस्स तस्स एव्व देवस्स बहुसो अणुभूददंसणा भविअ रविअरासिलिट्ठमुद्धकमलिणीकंदसुंदरावअवसोहाविहा— विदाणंगवेअणावइअररमणीआ वि परिअणकुलदिण्णाहिणंदइ कलाकीला— वसाणदां वम्महस्स' इतियावत्।
(भगवती एवंवादिनीति अस्ति। अस्माकमपि भर्तृदारिका भवनासन्नरथ्यामुखमुहूर्तवेदनस्य/ मण्डनस्य तस्यैव देवस्य बहुशोऽनुभूतदर्शना भूत्वा रविकराश्लिष्टमुग्धकमलिनीकन्द— सुन्दरावयवशोभाविभावितानङ्गवेदनाव्यतिकररमणीयापि परिजनकुलदत्ताऽभिनन्दति कलाक्रीडावसानतां मन्मथस्य ॥ ९३॥)
५. सखी नाथिकाया यथा— (कादकसा. ७.५३–५५,७७, ७८)
अथ बिभ्रज्जटास्तन्वीः स्रुताम्बुकणदन्तुराः।
स्त/स्नानार्द्रवल्कलस्ताभिरदृश्यत कपिञ्जलः॥ ९४॥
स्वयमेवोपसृत्यैष महाश्वेतामभाषत।
राजपुत्र्यपि नामायं प्रत्यभिज्ञायते जनः॥ ९५॥