भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 361 to 370 of 765 verses
यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः॥ ९९॥

इत्यत उपक्रम्य,

अगूढसद्भावमितीङ्गितज्ञया निवेदिते नैष्‍ठिकसुन्दरस्तया।

अपीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः॥ १००॥

इति यावत्

७. नायको दूत्या यथा—(मामा. ४.१)

'अद्याहमन्तर्नगर एव कांचिद् वार्तामुपश्रुत्य माधवस्य चित्तोद्वेगमधिकमाशङ्कमानः त्वरितमवलोकिताविदितकुसुमाकरोद्यानवृत्तान्तः परापतन्नेव शार्दूलावस्कन्देन गोचरमिमामभिजातकन्यकामभ्युपपन्नवान्'॥ १०१॥

८. नायकः सख्युर्यथा—'श्रूयताम्, गतोऽहमवलोकिताजनितकौतुकः कामदेवायतनम् (मामा. १.२३/२४)' इत्यत आरभ्य,

जयति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।

मम तु यदियं याता लोके विलेचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः॥ १०२॥

Showing 361 to 370 of 765 verses