यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः॥ ९९॥
अगूढसद्भावमितीङ्गितज्ञया निवेदिते नैष्ठिकसुन्दरस्तया।
अपीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः॥ १००॥
७. नायको दूत्या यथा—(मामा. ४.१)
'अद्याहमन्तर्नगर एव कांचिद् वार्तामुपश्रुत्य माधवस्य चित्तोद्वेगमधिकमाशङ्कमानः त्वरितमवलोकिताविदितकुसुमाकरोद्यानवृत्तान्तः परापतन्नेव शार्दूलावस्कन्देन गोचरमिमामभिजातकन्यकामभ्युपपन्नवान्'॥ १०१॥
८. नायकः सख्युर्यथा—'श्रूयताम्, गतोऽहमवलोकिताजनितकौतुकः कामदेवायतनम् (मामा. १.२३/२४)' इत्यत आरभ्य,
जयति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।
मम तु यदियं याता लोके विलेचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः॥ १०२॥