अहं कपिञ्जलस्तस्य वयस्यो दयितस्य ते।
चिरागमनदौरात्म्यादुपालभ्योऽस्मि न त्वया॥ ९६॥
कपिञ्जलकथातस्तं वैशम्पायनविग्रहम्।
पुण्डरीकमभिज्ञाय महाश्वेतान्वतप्यत॥ ९७॥
द्वितीयेऽप्यहमेवास्य जाता जन्मनि मृत्यवे।
शप्तो ममानुरक्तोऽसौ मयेति विललाप सा॥ ९८॥
६. सखी नायकस्य यथा—(कुसं. ५.५२, ६२)
सखी तदीया तमुवाच वर्णिनं निबोध साधो तव चेत्कुतूहलम्।