भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 331 to 340 of 765 verses
(पृ.१२८९)

(सङ्गमसुखसमाभ्यधिकमनोरथा भवन्ति सन्देशाः॥)

असङ्कल्पितमप्यर्थमुत्सृष्‍टमपि कारणात्।

पुनरावर्तयत्येव दूती वचनकौशलात्॥ ९२b॥

(कामसू.५.४)

(४२. इतिवृत्ताख्यानम्)

दूतीसखीनायिकाव्याख्यानप्रपञ्चः। तत्र—

१. दूतीसख्याः यथा—(मामा. २.८/९) 'श्रूयतामस्ति, विदर्भाधिपस्य नरपतेः अमात्य' इत्यत आरभ्य 'स एष माधवो नाम' इतियावत्।

२. दूतीनायिका यथा—(मामा. ३.१०/११)

कामन्दकी— मालत्याश्‍चिबुकमुन्नमय्य 'शृणु विचित्रमिदं सुभगे। अस्ति तावदेकदा प्रसङ्गतः कथित एव मया माधवाभिधानः कुमारो यस्त्वमिव मामकीनस्य मनसो द्वितीयं बन्धनम्' इत्युपक्रम्य 'अहो उपन्यास अहो महत्त्वारोपणे यत्‍न' इति माधवस्य सम्प्रत्ययोत्पत्तिरिति यावत्।

Showing 331 to 340 of 765 verses