इदं त्वकृतमन्येन कृतमाश्चर्यमार्यया॥ ८७॥
'यातो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले'॥ ८८॥
४. नायिकाकृतो यथा—(मामा. ६.७/८)
हा परमत्थवादिणि पिअसहि लवंगिए एसा दाणिं पिअसही अणाधा मरणे वट्टमाणा आगव्भनिग्गमणिरंतरोपऊढवीसंभसरिसं परिस्सज्ज त्ति अब्भत्थेदि। (हा परमार्थवादिनि प्रियसखि, लवङ्गिके, एषा इदानीं प्रियसखी अनाथा मरणे वर्तमाना आगर्भनिर्गमनिरन्तरोपारूढविस्रम्भसदृशं परिष्वंजेति अभ्यर्थयते।)
मदयन्तिका— किं पुणो वि पणअभंगेण किदावराहो अअं जणो जेण एवं मंतेसि। पिअसहि तुमं लवंगिअ अ संपदं मे हिअअं।
(किं पुनरपि प्रणयभङ्गेन कृतापराधः अयं जनो येन एवं मन्त्रयसे। प्रियसखि त्वं लवङ्गिका च साम्प्रतं मे हृदयम्॥ ८९॥) (पृ. १८०, NS 1936)