तत्र दूतीसखीनायकादिभेदाद् दूतपुरस्कारप्रपञ्चः। तत्र —
१. दूतीकृतो यथा—(मामा. १.१८/१९)
कामन्दकी— वत्से अवलोकिते, साधु साधु। अनेन मत्प्रियाभियोगेन स्मारयसि मे पूर्वशिष्यां सौदामनीम्।
यथा वा— साधु सखे भूरिवसो साधु। प्रभवति निजस्य कन्यकाजनस्य महाराज इति उभयलोकाविरुद्धमुत्तरमुपन्यस्तम्॥ ८२॥ (मामा. २.२/३)
एह्येहि भूरिजनजीवितदानपुण्य— सम्भारधारिणि! चिरादसि हन्त दृष्टा।
दत्तप्रमोदमपि नन्दय मे शरीरम् आलिङ्ग्य सौहृदनिधे! विरम प्रणामात्॥ ८३॥
वन्द्या त्वमेव जगतः स्पृहणीयसिद्धिः एवंविधैर्विलसितैरतिबोधिसत्त्वैः ।
यस्याः पुरा परिचयप्रतिबद्धबीजम् उद्भूतभूरिफलशालि विजृम्भितेन॥ ८४॥