युवा सोऽयं प्रेयानिह सुवदने मुञ्च जडतां विधातुर्वैदग्ध्यं विलसतु सकामोऽस्तु मदनः॥ ७८॥
त्वं वत्सलेति कथमप्यवलम्बितात्मा सत्यं जनोऽयमियतो दिवसाननैषीत्।
आविद्ध—कङ्कण—कर—प्रणय—प्रसादं आसाद्य नन्दतु चिराय फलन्तु कामाः॥ ७९॥
४०. सुहृत्परिहासो यथा—(रघु. ६.८२, कुसं. ७.१९)
तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे।
आर्ये व्रजावान्यत इत्यथैनां वधूसूयाकुलितं ददर्श॥ ८०॥
पत्युः शिरश्चन्द्रकलमनेन स्पृशेति सख्या परिहासपूर्वम्।
सा रञ्जयित्वा चरणौ कृताशीर् माल्येन तां निर्वचनं जघान॥ ८१॥
अथातो दूतपुरस्कार इतिवृत्ताख्यानमवस्थाज्ञानमवधानं सम्प्रयोगसम्प्रधानं शक्तिविवेचनं समागमोपायः समीहितसिद्धिरिति प्रपञ्चतोऽभिधीयन्ते।