तुरिअ-पहाइअ-दिट्टम्मि परिअणे आगओ त्ति सोऊण।
अज्जा सज्झसविअला पअं पि दाउं ण पारेइ॥ ७६॥
{त्वरित—प्रधावित—दृष्टे परिजने आगत इति क्षुत्वा।
आर्या साध्वसविकला पदमपि दातुं न पारयति॥}
सज्झसवेसवेविरकोमलोरुपडिसिद्धसमुहसेभारे ।
केण व दिण्णं ताविइ पिएण परिरंभिआ रमणी॥ ७७॥
{साध्वसवेपनशीलकोमलोरुप्रतिषिद्धसमूहसंभारे ।
केन वा दत्तं तावदिति(दिण्णोदंत त्ति) प्रियेण परिरब्धा रमणी॥}
३९. नायकाप्रतिबोधनं यथा—(मामा. ६.१५)
पुरश्चक्षूरागस्तदनु मनसो मन्युपरता तनुग्लानिर्यस्य त्वयि समभवद् यत्र च तव।