क्व प्रस्थितासि करभोरु घने निशीथे प्राणाधिको वसति यत्र जनः प्रियो मे।
एकाकिनी वद कथं न बिभेषि बाले नन्वस्ति पुङ्खितशरो मदनः सहायः॥ ६९॥
३५. नायकानयनं यथा—(किराता. १०.४७, ७०)
सखि दयितमिहानयेति सा मां प्रहितवती कुसुमेषुणा विभिन्ना।
हृदयमहृदया न नाम पूर्वं भवदुपकण्ठमुपागतं विवेद॥ ७०॥
तदनघ तनुरस्तु सा सकामा व्रजति पुरा हि परासुतां त्वदर्थे।
पुनरपि सुलभं तवानुरागी युवतिजनः खलु नाप्यतेऽनुरूपः॥ ७१॥
३६. प्रियाभिगमो यथा—(कुसं. ५.८४, ८५)
इतो गमिष्याम्यथवेतिवादिनी चचाल सा च स्तनभिन्नवल्कला।
स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः॥ ७२॥