चूतयष्टिरिवाभ्याशे मधौ परभृतोन्मुखी॥ ४८॥
७१. या तु सन्देशमवधारयितुमक्षमा लेखमात्रं प्रापयति सा बुद्धिगुणवादसम्पद्योगात् पत्रहारिणी। यथा—(कादकसा. ४.६८)
ततस्तरलिका मह्यमर्पयामास पट्टिकाम्।
तस्यां तु लिखितामार्यामिमामहमवाचयम्॥ ४९॥
दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे।
हंस इव दर्शिताशः मानसजन्मा त्वया नीतः॥ ५०॥१
७२. एतासां तु तिसृणामपि प्रतिवाक्य—प्रतिसन्देश—प्रतिलेखैरुत्तराणि योजयेत्। तथाभिधास्यामः। प्रायशः पुरस्तात् (कासू. ५.४) 'बालां परिचारिकाम् अदोषज्ञाम् अदुष्टेनोपायेन प्रहिणुयात्। तस्याः स्त्रजि कर्णपत्रे वा लेखं विदध्यात्। नखदशनपदानि पादन्यासा वा दद्यात्; सा (?) समस्तबुद्धिगुणाभावान्मूकदूती। तस्यास्तयैवोत्तरं प्रार्थनम्।' यथा—
सङ्केतद्रुममञ्जरीकृतशिरोभूषां भुजिष्यात्मजा— मालोक्य प्रहिता विटेन कुलटा प्रत्यागमिष्यत्पतिम्।
रक्षन्ती नखदन्तकर्म महतः प्रेम्णश्च भङ्गव्यथा— मानायास्मि रजस्वलेति रजसा पौष्पेण पर्यस्यति॥ ५१॥
NOTES pg=1247! १. कादम्बरीकथामुखे।