अविचारितकार्यारम्भकारिणी म्रियतां न भणिष्यामि॥)
सच्चं जाणइ दट्ठुं सरिसम्मि जणम्मि जुज्जए राओ।
मरउ, ण तुमं भणिस्सं, मरणं पि सिलाहणिज्जं से॥ ४६॥
(सत्यं जानाति द्रष्टुं सदृशे जने युज्यते रागः।
म्रियतां न त्वां भणिष्यामि मरणमपि श्लाघनीयं तस्याः॥)
७०. या दृष्टपरस्परयोः प्रविरलदर्शनयोर्वा सन्देशमात्रं प्रापयति सा बुद्धिगुणसम्पद्योगात् परिमितार्था। यथा—(कुसं. ६.१, २)
अथ विश्वात्मने गौरी सन्दिदेश मिथस्सखीम्।
दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति॥ ४७॥
तथा व्याहृतसन्देशा सा बभौ निभृता प्रिये।