प्रकृत्या ह्यमणिः श्रेयान्नालङ्कारश्च्युतोपलः॥ ४२॥
एतेषां यथास्थानमुपयोगः। तेषु प्रायेण देवमनुष्यौ, पाषण्डिपीठमर्दौ च निसृष्टार्थौ। शारिकाशुकौ, विटविदूषकौ च परिमितार्थौ किन्नरवानरौ, मालाकार—ताम्बूलिकौ च पत्रहारकौ। हंसपारावतौ, गान्धिकसौरिकौ च मूकदूतौ। एवं सहपांसुक्रीडितसहाध्यायिनौ, पितृपैतामहवित्, विदितमर्मरहस्यौ, अमन्त्रविसंवादकौ च परिमितार्थौ। NOTES pg=1245! १. जैह्व्यमिति मुद्रा। अत्राकरो मृग्य इति राघवः। जन्मान्तरोपार्जितोपकारसम्बद्धौ अपरिहार्यादृष्टवैकृतौ च पत्रहारकौ। समानशीलव्यसन— धात्रेयकौ, धार्मिकालोभशीलौ च मूकदूतौ। एवमात्मा गुरुरुदात्तोत्कृष्टौ च निसृष्टार्थाः। सखा ज्ञातिरुद्धतप्रकाशौ च परिमितार्थाः। कनीयानौरसः शठधृष्टौ च मूकदूताः प्रायेणैवेति। प्रायोगिकेषु च प्रायशः प्रच्छन्नः। प्रकाशो हि उत्कृष्टः दूतः स्वयंदूतो वा। उद्धतोदात्तौ धृष्टः शठश्च स्वयंदूता एवेति। प्रायग्रहणात्तु हंसपारावतौ औरसकनीयसौ शारिकाशुकप्रच्छन्नवानरादीनां च क्वचित्। तत्र वैशम्पायन—शान्तनव—हैमन्तक— समुद्रघोषादयः उदाहरणं कथाविशेषयोगात्। यथोक्तम् पुरस्तात्।१
स्त्रीषु अनिमित्तेषु अपि —
ईक्षणिका, भिक्षुकी, स्वयंदूती, वातदूती च प्रायशः निसृष्टार्थाः,
सखी, धात्रेयिका, मूकदूती, भार्यादूती च परिमितार्थाः,
विधवा, दासी, च्छद्मदूती, व्याजदूती च पत्रहारिका,
मन्त्रदूती, तन्त्रदूती च मूकदूत्य इति।
तत्र न तथा प्रायेण परभवनेषु पुरुषाणां प्रवेशः यथा स्त्रीणामतो दूतीसम्प्रेषणमेव श्रेयः, न दूतसम्प्रेषणमिति। उक्तं च—(कासू. ५.४)