विधवेक्षणिका दासी भिक्षुकी शिल्पकारिका।
मालाकारादियोषास्स्युः सखी धात्रेयिकापि वा॥ ४३॥
सा प्रवृत्तिनिमित्तेषु सत्सु दूत्ये नियोजिता।
प्रविशत्याशु विश्वासं दूतीकार्यं च विन्दति॥ ४४॥
ताश्च यथासम्भवं यथोपन्यासं वा निसृष्टार्था, परिमितार्था, पत्रहारिणी, मूकदूती, स्वयंदूती, वातदूती, मूढदूती, भार्यादूती, छद्मदूती, व्याजदूती, मन्त्रदूती, तन्त्रदूती चेति द्वादश भवन्ति। तत्र—
६९. नायकस्य नायिकाया वा यथामनीषितमुपलभ्य स्वबुद्धया कार्यसम्पादिनी निसृष्टार्था, तस्याः समग्रबुद्धिगुणयोगात्। यथा—(गास. ७.२)
हिअ/ए एहि एहि किंपि तस्य कएण णिक्विव भणामि अलमहवा।
अविआरिअकज्जारंभआरिणी मरउ ण भणिस्सं॥ ४५॥
NOTES pg=1246! १. १२४६ पृष्ठे।
(अयि एहि किमपि तस्याः कृते निष्कृप भणाम्यलमथवा।