सुहमिच्छंतो दुस्सहजणाणुराए जणो पडइ॥ ५१॥
(प्रेर्यमाणः पूर्वकृतैः कर्मभिः कैरपि वराकः।
सुखमिच्छन् दुस्सहजनानुरागे जनः पतति॥)
आरंभो जस्स इमो णीसासाआस—सोसिअ—सरीरो।
परिणाहो कहं होहिइ ण आणिमो दड्ढपेम्मस्स॥ ५२॥
(आरम्भो यस्यायं निःश्वासायासशोषितशरीरः।
परिणामः कथं भविष्यति न जानीमो दग्धप्रेम्णः॥)
सखीसम्प्रश्नो यथा—(गास. ४.५६)
वअणे वअणम्मि चलंत—सीस—सुण्णावहाण—हुंकारं।