सहि देंत्ती णीसासंतरेसु कीस म्ह दूमेसि॥ ५३॥
(वचनेषु चलच्छीर्षशून्यावधानहुङ्कारम्।
सखि ददती निःश्वासान्तरेषु किमित्यस्मान् दुनोषि?॥)
अण्णं जं णूमिज्जइ एअं पुण सुअणु वम्महरहस्सं।
साहिज्जंतं ण तहा गुप्पंतं जह फुडीहोइ॥ ५४॥
(अन्यद् यद् गुप्यते एतत् पुनः सुतनु! मन्मथरहस्यम्।
कथ्यमानं न तथा गुप्यमानं यथा स्फुटीभवति॥)
अज्ज सहि सो जुआणो उवइट्ठो मुरलमुत्तरंतीए।