कान्तायाः परिचारिकामतिशिशुं दृष्ट्वा गृहप्राङ्गणे गूढं केतकपत्रगर्भलिखितं लेखं दधानां स्त्रजि।
आहूय प्रविलोभ्य नीच—निचुलैरादाय तं मुञ्चते तां सङ्केतनिकेतवेतसदलैः क्लृप्तावतंसां विटः॥ ५२॥
७३. संसृष्टयोः प्रगाढसद्भावयोः देशकालसम्पादनार्थमाहूतापि या 'स्वयमेव नायकमभिगच्छेत्, अजानती नाम तेन सहोपभोगस्वप्नं कथयेत्, गोत्रस्खलनं विदध्यात्, भार्यां वास्य निन्देत्, तद्व्यपदेशेन च स्वयमीर्ष्यां दर्शयेत्, नखदशन— चिह्नितं वा किञ्चिद् दद्यात्, भवतेऽहमादौ दातुं सङ्कल्पितेति वाभिदधीत; मम वा त्वद्भार्याया वा का रमणीयेति विविक्ते पर्यनुयुञ्जीत सा स्वयंदूती' (कासू.५.४)। यथा—
पित्राहं परिकल्पितास्मि भवते दातुं बतैषा त्वया किं मां रम्यतरावमवैषि यदियं मामीर्ष्यया पश्यति।
स्वप्ने दानमभूत्त्वया मम मया नाम प्रभातेऽद्य ते धिक्त्वां क्रूरकलत्रपाशपतितं भव्योत्तरोपेक्षणम्॥ ५३॥
स्वयंदूताभियोगे यथा—(सक. २.३३८)
नादेयं किमिदं जलं घटगतं नादेयमेवोह्यते सत्यं नाम पिबामि कत्यपतृषः पीतेन नाम्नाऽभवन्।
किं वर्णा अपि सन्ति नाम्नि रहितं किं तैरलं त्वं कुतो यस्मादेव भवान्भगिन्यसि ततस्तेनैव मां बाधसे॥ ५४॥
७४. प्रस्तुतार्थलिङ्गसम्बद्धमन्यजनाग्रहणीयार्थमलौकिकार्थं वातदूती। तत्र—