प्रस्तुतार्थलिङ्गसम्बद्धं यथा—(गास. ९५८वे.)
आसाइअमणाणेण जेत्तिअं तेत्तिएण चिअ बंध दिहिं।
ओरमसु वसह एण्हिं रक्खिज्जइ गहवईच्छत्तं॥ ५५॥
(आसादितमज्ञातेन यावत् तावतैव बधान धृतिम्।
उपरम वृषभेदानीं रक्ष्यते गृहपतिक्षेत्रम्॥)
अन्यजनाग्रहणीयार्थं यथा—(गास. ५.८२)
उज्जागरअ—कसाइअ—गुरु—अच्छी मोहमंडणविलक्खा।
लज्जइ लज्जालुइणी सा सुहअ सहीण वि वराई॥ ५६॥
(उज्जागरककषायितगुरुकाक्षी मोघमण्डनविलक्षा।
लज्जते लज्जाशीला सा सुभग! सखीभ्योऽपि वराकी॥)