यथा वा— निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम्।
उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन॥ ५९॥
७५. एतेन स्वयंदूत्युत्तरमपि व्याख्यातम्। 'नायकभार्यां मुग्धां विश्वास्य निर्यन्त्रणमनु— प्रविश्य तामस्य चेष्टितं पृच्छति, योगान् शिक्षयति, साकारं मण्डयति, कोपमेनां ग्राहयति, एवं च प्रतिपद्यस्वेति श्रावयति, स्वयं च ताभ्यां नखदशनपदानि विधत्ते, तेन च द्वारेण नायकमाकारयति, सा मूढदूती' (कासू. ५)।
यथा— मुग्धां पृच्छति वल्लभस्य दयितामाहूय तच्चेष्टितं व्याचष्टे च रहः प्रबन्धमधिकं संख्याय सन्नह्यति।
तां साकारमलङ्करोति कुलटा तस्यास्तनूत्सङ्गयो— र्दत्ते दन्तनखक्षतानि वचनप्रेम्णा न को मुह्यति॥ ६०॥
तस्यास्तथैवौत्तराणि योजयेत्। (कासू. ५)
(सर्वेऽप्यद्य नवे रते समुचिताः) योगाः चतुष्षष्टिजाः सङ्खयां मे न समाख्यदत्रभवती सम्यक्समग्रानिमान्।
NOTES pg=1249! १. जो. रा. एवमेव खण्डितम्।
शिक्षस्वैहि तवेह कौतुकरसो जातः पृथुश्रोणि! चे— दित्थं मुग्धवधूमुखेन दयितां धूर्तस्समाकर्षति॥ ६१॥
७६. 'स्वभार्यां वा मूढां प्रयोज्य तया सह विश्वासेन योजयित्वा तयैवाकारयेद्, आत्मनश्च वैचक्षण्यं प्रकाशयेत् सा भार्यादूती' (कासू. ५), (गास. ७.७७)