पेदुद्देसेसु परोहडेसु हट्टेसु गामरच्छासु।
विरलअरालंधआर सार/हअ केण मुसिओसि॥ ६२॥
(प्रेतोद्देशेषु गृहपश्चाद्भागेषु हट्टेषु ग्रामरथ्यासु।
विरलतरान्धकार कथय केन मुषितोऽसि॥)
ध्वान्तसत्कारो यथा—(गौव. ४०६)
गअणं अ मत्तमेहं धारालुलिआइ भुवणाइ।
णिरहंकारमिअंका हरंति णीलाओ वि णिसा॥ ६३॥
(गगनं च मत्तमेघं धारालुलितानि भुवनानि।
निरहङ्कारमृगाङ्का हरन्ति नीला अपि निशाः॥)