बाला णिमीलिअच्छी पअपरिवाडिं घरे कुणइ॥ ५९॥
(अद्य मया गन्तव्यं घनान्धकारेऽपि तस्य सुभगस्य।
बाला निमीलिताक्षी पदपरिपाटीं गृहे करोति॥)
गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः।
सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लबास्ताः॥ ६०॥
मज्झवहाउ बंधव घणदुद्दिणकत्थ दीसिहसि॥ ६१॥