ण तहा सही, ण दूई, ण जणं, णेइ णईअडकुडुंगं।
जह तमणिवहो सहि! णिद्धबंधवो बंधइजणस्स॥ ६४॥
(न तथा सखी न दूती न जनो नयति तटकुडुङ्गम्।
यथा तमोनिवहः सखि! स्निग्धबान्धवो बन्धकीजनस्य॥)
चन्द्रिकाभिसरणं यथा—(गास. ७.७)
गम्मिहिसि तस्स पासं सुंदरि! मा तूरसु सुअणु वड्ढउ मिअंको।
दुद्धे दुद्धं विअ चंदिआइ को पेच्छइ मुहं ते॥ ६५॥
(गमिष्यसि तस्य पार्श्वं सुन्दरि! मा त्वरस्व सुतनु! वर्धतां मृगाङ्कः।
दुग्धे दुग्धमिव चन्द्रिकायां कः प्रेक्षते मुखं ते॥)