अविहाविज्जंतो च्चिअ गुरुपुरओ पिअअमं समल्लिअइ।
जोण्हा—सवण्ण—पड—बहलंग—ठिओ कामिणी—सत्थो॥ ६६॥
(अविभाव्यमान एव गुरुपुरतः प्रियतमं समालीयते।
ज्योस्ना—सवर्ण—पट—बहलाङ्ग—स्थितः कामिनीसार्थः॥)
बहुअं कलंकहरिअं थोवं चिअ णिम्मलं हआसस्स।
चंदस्स तह वि माए ण अप्पिणा सामला जोण्हा॥ ६७॥
(बहुकं कलंङ्कहृतं स्तोकमेव निर्मलं हताशस्य।
चन्द्रस्य तथापि मातर्न आत्मना श्यामला ज्योत्स्ना॥)