भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 241 to 250 of 765 verses
द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपस्साक्षिषु दृष्‍टमेष्वपि।

न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः॥ ६५॥

३३. इतिकर्तव्यता यथा—(कादकसा. ५.१०६, १०७)

तदर्थमथ संमन्त्र्य सह मन्त्रिसुतेन च।

एवमेतदिति ध्यात्वा प्रस्थाने स्थैर्यमग्रहीत्॥ ६६॥

सत्यं वेद्मि तव प्रसादमधिकं चेतो ममेदं पदं दातुं नेच्छति किन्तु शासनमिदं नोल्लङ्घनीयं गुरोः।

मन्युः सम्प्रति संहितां पुनरिहागन्तास्मि कादम्बरीं सन्दिश्येति सबाष्पगद्गदमसौ केयूरकं प्राहिणोत्॥ ६७॥

३४. स्वयंप्रवृत्तिर्यथा—

आरूढविस्फुरितचापमनोजराजे सज्जीकृते दयितसङ्गमसङ्गराय।

उच्‍चैर्नितम्बजयहस्तिनि हेमकक्ष्यामेणेक्षणा सरभसं निबिडीचकार॥ ६८॥

Showing 241 to 250 of 765 verses