(कुपिता च सत्यभामा अनुसृता पत्या केवलं मानस्खलने।
प्रकटितनिजसारः प्रेमासङ्गसदृशः प्रवर्तते मन्युः॥)
'अत्रान्तरे ललितहारलता'॥ ५६॥
८. परर्द्ध्यसहनमसूयितं यथा—
तोणी णिअपेम्म—पडिपसाअ—दूणमाणं असहंति चलिआ।
जाव पइणो चलंतणेउर—पलाव—कड्ढिअ—हिअआ॥ ५७॥
(तस्मात् निजप्रेमप्रतिप्रसाददूनासहमाना चलिता।
यावत् पत्युः चलन्नूपुरप्रलापकठिनहृदया॥)