(॰॰॰ विरचितकर्णावतंसदुष्प्रेक्षे।
गुरुजनसम्मतिवाहके वधूमुखे दृष्टिः॥)
जो तीए अहर—राओ रत्तिं उव्वासिओ पिअअमेण।
सो च्चिअ दीसइ गोसे सवत्तिणअणेसु संकंतो॥ ५४॥
(यस्तस्या अधरारागो रात्रावुद्वासितः प्रियतमेन।
स एव दृश्यते प्रभाते सपत्नीनयनेषु संक्रान्तः॥)
७. अनुभयापेक्षो मन्युर्मन्त्रायितं यथा—(सक. ५.२६४) (हरिवि.)
कुविआ अ सच्चहामा समे वि वहुआण णवर माणक्खलणे।
पअडिअहिअअसारो पेम्मासंगसरिसो पवट्ठइ मण्णू॥ ५५॥