९. नायको नायिकाया यथा—(मामा. ५.२७)
त्वत्पाणिपङ्कजपरिग्रहपुण्यजन्मा भूयासमित्यभिनिवेशकदर्थ्यमानः ।
भ्राम्यत्रृमांसपणनाय परेतभूमा— वाकर्ण्य भीरु रुदितानि तवागतोऽस्मि॥ १०३॥
१०. नायिकाय दूत्या यथा—(मामा. ७.१/२)
'पिअसहि बुद्धरक्खिदापक्खवादपच्चएण पधमं एव्व तस्सिं जणे अचिरणिव्वुददंसणा भविअ' (प्रियसखि बुद्धरक्षितापक्षपातप्रत्ययेन प्रथममेव तस्मिन् जने अचिरनिर्वृत्तदर्शना भूत्वा॥) इत्यत आरभ्य
'पिअसमक्खं सव्वमणुभविअ झडिति सुण्णारण्णसण्णिहं पुणो वि मंदभाइणी विभावेमि जीवलोअं' (प्रियसमक्षं सर्वमनुभूय झडिति शून्यारण्यसन्निभं पुनरपि मन्दभागिनी विभावयामि जीवलोकम्॥) इति यावत्। यद्वा 'कथं पुणो दीअणाडिआविच्छेदपडहो ताडिअदि।' (कथं पुनः दीर्घनाडिकाविच्छेदपटहः ताड्यते ॥ १०४॥) इति यावत्।
११. नायिकासख्या यथा—(शाकु. ३.१०)
शाकुन्तले 'जदो पहुदि मम दंसणपहं गदो तपोवणरक्खी राएसी तदो आरहिअ तग्गदेण अहिलासेण एआरिसावत्था संउत्ता। तहा करेह यहा तस्स राएसिणो अणुकंपणीआ होमि। अह अण्णहा सिंच दाणिं मे उदअं।' (यतः प्रभृति मम दर्शनपथमागतः तपोवनरक्षी राजर्षिः, तत आरभ्य तद्गतेन अभिलाषेण एतादृशावस्था संवृत्ता। तथा कुरुतं यथा तस्य राजर्षेः अनुकम्पनीया भवामि। अथ अन्यथा सिञ्चतं इदानीं मे उदकम्।)