राजा— सहर्षं 'श्रुतं श्रोतव्यम्। विमर्शच्छेदि वचनम्। एतावान् कामिन' इत्यारभ्य ॥ १०५॥ (शाकु. ३.१०)
तपति तनुगात्रि! मदनस्त्वामनिशं मां पुनर्दहत्येव।
ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः॥ १०६॥
१२.नायिका नायकस्य यथा—(कुसं. ५.६४)
यथाश्रुतं वेदविदां वर! त्वया जनोऽयमुच्चैःपदलङ्घनोत्सुकः।
तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते॥ १०७॥
एवमन्येऽपि यथा—(मामा. ६.१५ / १६)
'भअवदि किसण—रअणि—मसाण—पचार—विव्वसिद—विसम—ववसाअ— णिट्ठाविद—चंड—पचंडपखंडदोद्दण्डसाहसो साहसिओ एसो। अदो पिअसही उक्कंविदा।' (भगवति कृष्णरजनीश्मशानप्रचारव्यवसितविषमव्यवसायनिष्ठापितचण्डप्रचण्ड— पाखण्डदोर्दण्डसाहसो साहसिक एषः। अतः प्रियसखी उत्कम्पिता।)