पराभिमर्शो न तवास्ति कः करं प्रसारयेत्पन्नगरत्नसूचये॥ ८५॥
विप्रतिषेधो यथा—(कुसं. ५.४४)
किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम्।
वद प्रदोषे विनिकीर्णतारका विभावरी यद्यरुणाय कल्पते॥ ८६॥
५. प्रस्तुतेष्वसंहतं चालना। सापि ज्ञाताज्ञातनिष्ठितभेदात् त्रिधा। तत्र— अविज्ञातविषया यथा—(कुसं. ५.४५)
दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः।
अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत्॥ ८७॥
ज्ञातविषया यथा—(कुसं. ५.४६)
निवेदितं निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते।
न दृश्यते प्रार्थयितव्य एव ते भविष्यते प्रार्थितदुर्लभः कथम्॥ ८८॥