निष्ठितविषया यथा—(कुसं. ५.४७)
अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते।
अपेक्षते यः श्लथबन्धिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः॥ ८९॥
६. कथंचिन्मर्षणं प्रत्यवस्था। सापि त्रेधा— समीपस्था, श्लिष्टा, अन्तर्गता च। तासु— समीपस्था यथा—(कुसं. ५.४८)
मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम्।
शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते॥ ९०॥
श्लिष्टा यथा—(कुसं. ५.४९)
अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः।
करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः॥ ९१॥
अन्तर्गता यथा—(कुसं. ५.५०)